श्री आदिमाता अशुभनाशिनी स्तवनम्

प्रणवमाते गतित्राते गयःत्राते भर्गमालिनी |
 पापनाशिनी चण्डिके श्रीगायत्रि नमोSस्तु ते || १ ||
 
 त्रिमूर्तिमाते पतिव्रते प्रेमत्राते तपमालिनी |
 दु:खनाशिनी चण्डिके अनसूये नमोSस्तु ते || २ ||
 
 भावस्था त्वं नामाधारा नादस्था मन्त्रमालिनी |
 अशुभनाशिनी चण्डिके महिषासुरमर्दिनि नमोSस्तु ते || ३ ||
 
 सर्वबाधाप्रशमनं त्रैलोक्यस्य अखिलेश्वरी |
 एवमेव त्वया कार्यं अस्मद् वैरिविनाशनम् || ४ ||
 
 पिशाचदैत्यदुर्मान्त्रिकादि-सर्वशत्रुविनाशिनि |
 ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै
 रक्ष रक्ष परमेश्वरि || ५ ||
  रोगानशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलान् अभीष्टान्
 त्वां आश्रितानां न विपन्नराणां त्वां आश्रिता ह्याश्रेयतां प्रयान्ति || ६ ||
 
 ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै
 क्षमस्व मे परमेश्वरि
 ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै
 प्रसीद मे परमेश्वरि || ७ ||
 
 अष्टादशभुजे त्रिधे श्रीदुर्गे सिंहवाहिनी |
 भयेभ्यस्त्राहि नो देवि शुभंकरे नमोSस्तु ते || ८ ||
 
 बिभिषण उवाच
 पापोSहं पापकर्माSहं पापात्मा पापसंभवः |
 त्राहि मां आदिमाते सर्वपापहरा भव || ९ ||
