Sadguru Aniruddha Bapu

Panchamukh Hanumat Kavach - श्री पंचमुख हनुमंतकवच

श्री पंचमुख हनुमंतकवच स्तोत्र (संस्कृत)


।। श्रीपञ्चमुखहनुमत्कवचम् ।।

श्रीगणेशाय नम:। ॐ अस्य श्रीपञ्चमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषि:।
गायत्री छंद:। पञ्चमुख-विराट
् हनुमान् देवता। ह्रीम् बीजम्। श्रीम् शक्ति:। क्रौम्
कीलकम्। क्रूम् कवचम्। क्रैम् अस्त्राय टफ् । इति दिग्बन्ध:।
।। श्रीगरुड उवाच ।।

अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदर।
यत्कृतं देवदेवेन ध्यानं हनुमत: प्रियम् ।। १।।

पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम्।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ।।२।।

पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम्।
दंष्ट्राकरालवदनं भ्रुकुटिकुटिलेक्षणम्।। ३।।

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ।। ४।।

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ।
सर्वनागप्रशमनं विषभूतादिकृन्तनम्।। ५।।

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ।
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ।।७।।

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम्।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ।। ८।।

खड़्गं त्रिशूलं खटवाङ्गं पाश‘ङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ।।९।।

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपु‘वम्।
एतान्यायुधजालानि धारयन्तं भजाम्यहम्।। १०।।

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्।
दिव्यमाल्ङ्माम्बरधरं दिव्यगन्धानुलेपनम्।। ११।।

सर्वाश्चर्यमयं देवं हनुमद्विश्वतो मुखम् ।।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम्।
पीताम्बरादिमुकुटैरुपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि।। १२।।

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्।
शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर।।१३।।

ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले।
यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता।।१४।।

ॐ हरिमर्कटाय स्वाहा।
ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा।
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय
सकलभूतप्रमथनाय स्वाहा।
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा।
ॐ नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा।
ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा।
ॐ श्रीपञ्चमुखहनुमन्ताय आञ्जनेयाय नमो नम:।।

।। हरि: ॐ ।।