Sadguru Aniruddha Bapu

Shree Shivgangagauri Gada Stotram - श्रीशिवगंगागौरी-गदास्तोत्रम्‌‍

गदास्तोत्रम् (संस्कृत)


अथ श्रीशिवगंगागौरी-गदास्तोत्रम्‌‍।

जगदम्ब त्वं ब्रह्मास्त्रविद्या । हरिद्रास्थिता पीतवर्णा त्रिनेत्रा ।
त्वमेव अरिष्टस्तम्भनकारिणी मात:। शिवगंगागौरि वन्दामहे ॥ १॥

अभीष्टां नमाम: पंचाग्निविद्यां । त्वां सिद्धविद्यां श्रीवेदपीठाम्‌‍ ।
अष्टमी अष्टधा त्वं श्रीदण्डनाथा मात:। शिवगंगागौरि वन्दामहे ॥ २॥

नमो अर्गलायै चाथ कीलकायै । नम: सप्तस्वर्यै वडवानलायै ।
नमो बलगौर्यै हि बलगंगायै मात: । शिवगंगागौरि वन्दामहे ॥ ३॥

स्थिरावत्यै वज्रविनायकायै । चक्रवातस्तम्भिन्यै सुवर्णसुधायै ।
मुद्गरधारिण्यै पीतवसनायै मात: । शिवगंगागौरि वन्दामहे ॥ ४॥

पीतकाज्योतिस्त्वमेव स्फटिका । परतन्त्रविनाशिनी अस्माकं त्वमम्ब ।
स्वर्णाभा त्वं दुष्टोच्चाटनकारिणी मात: । शिवगंगागौरि वन्दामहे ॥ ५ ॥

संजीवनी त्वं करुणामयी त्वं । पीताम्बरविभूषिता जययुक्ता त्वम्‌‍ ।
चम्पावती सर्वरोगहरा श्रीरेणुका मात: । शिवगंगागौरि वन्दामहे ॥ ६ ॥

रक्षात्मकं शत्रुविनाशकं इदं । वात्सल्यकवचं स्तोत्रं स्वसिद्धम्‌‍ ।
सिद्धेश्वरि पाहि शिवगंगागौरि । माता कदापि नुपेक्षते स्व-अपत्यम्‌‍ ॥ ७। ।

त्वमेव कपिला श्रीकामधेनु: । शिवगंगागौरी सुवर्णाग्निवर्णा ।
बलाऽतिबलात्मकं स्तवनं तवेदं । त्वत्‌‍-पाणि-पद्म-धृत-गदामेव ॥ ८ ॥

सुनिश्चित-आशु-शुभफलदायकं । सकलार्ति-बाधा-तमाचार-स्तंभनम्‌‍ ।
जगदम्ब-गदास्तोत्रं पठेत्‌‍ य: स नित्यं । श्रीमातृदास: भवेत्‌‍ निर्भयश्च ॥ ९॥